वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢च्छा꣣ हि꣡ त्वा꣢ सहसः सूनो अङ्गिरः꣣ स्रु꣢च꣣श्च꣡र꣢न्त्यध्व꣣रे꣢ । ऊ꣣र्जो꣡ नपा꣢꣯तं घृ꣣त꣡के꣢शमीमहे꣣ऽग्निं꣢ य꣣ज्ञे꣡षु꣢ पू꣣र्व्य꣢म् ॥१५५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥१५५३॥

मन्त्र उच्चारण
पद पाठ

अ꣡च्छ꣢꣯ । हि । त्वा꣣ । सहसः । सूनो । अङ्गिरः । स्रु꣡चः꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ध्वरे꣢ । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । घृ꣣त꣡के꣢शम् । घृ꣣त꣢ । के꣣शम् । ईमहे । अग्नि꣢म् । य꣣ज्ञे꣡षु꣢ । पू꣣र्व्य꣢म् ॥१५५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1553 | (कौथोम) 7 » 2 » 7 » 2 | (रानायाणीय) 15 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (सहसः सूनो) बल और साहस के प्रेरक, (अङ्गिरः) प्राणप्रिय परमेश्वर ! (अध्वरे) उपासना-यज्ञ में (त्वा अच्छ) आपके प्रति (हि) निश्चय ही (स्रुचः) मेरी वाणियाँ (चरन्ति) प्रवृत्त हो रही हैं। हम (यज्ञेषु) अपने जीवन-यज्ञों में (ऊर्जः नपातम्) बल और प्राणशक्ति के न गिरने देनेवाले, (घृतकेशम्) प्रदीप्त तेजवाले, (पूर्व्यम्) सनातन (अग्निम्) आप अग्रनेता परमात्मा से (ईमहे) बल की याचना करते हैं ॥२॥

भावार्थभाषाः -

उपासना का यही लाभ है कि उपासक बल के खजाने परमात्मा के पास से अपरिमित बल प्राप्त करके लक्ष्यसिद्धि में सफल हो जाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (सहसः सूनो) बलस्य साहसस्य च प्रेरक, [सुवति प्रेरयतीति सूनुः। षू प्रेरणे, ‘सुवः कित्’ उ० ३।३५ इति नुः प्रत्ययः।] (अङ्गिरः) प्राणप्रिय परमेश ! (अध्वरे) उपासनायज्ञे (त्वा अच्छ) त्वां प्रति (हि) निश्चयेन (स्रुचः) मदीया वाचः। [वाग् वै स्रुक्। श० १।१।४।११।] (चरन्ति) प्रवर्तन्ते। वयम् (यज्ञेषु) अस्माकं जीवनयज्ञेषु (ऊर्जः नपातम्) बलस्य प्राणशक्तेश्च न पातयितारम्, (घृतकेशम्) दीप्तरश्मिम्। [घृतं दीप्तम्, घृ क्षरणदीप्त्योः। केशा रश्मयः। निरु० १२।२५।] (पूर्व्यम्) सनातनम् (अग्निम्) अग्रनेतारं त्वां परमात्मानम् (ईमहे) बलं याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥२॥

भावार्थभाषाः -

उपासनाया अयमेव लाभो यदुपासको बलनिधेः परमात्मनः सकाशादपरिमितं बलं प्राप्य लक्ष्यसिद्धौ सफलो जायत इति ॥२॥